|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.87. अध्यायः 087
Mahabharata - Bhishma Parva - Chapter Topics
उभयसेनयोर्व्यूहरचनापूर्वकं परस्पराभियानम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-87-0x(4166)(42575)
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः।
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ 6-87-1(42576)
ततः शब्दो महानासीत्सेनयोरुभयोर्नृप ।
निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव ॥ 6-87-2(42577)
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः।
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ 6-87-3(42578)
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् ।
व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान् ॥ 6-87-4(42579)
कूर्मव्यूहं ततः कृत्वा पिता तव विशांपते ।
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ 6-87-5(42580)
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ ।
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ 6-87-6(42581)
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान ।
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥ 6-87-7(42582)
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् ।
मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते ॥ 6-87-8(42583)
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।
मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः ॥ 6-87-9(42584)
बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः।
काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ 6-87-10(42585)
द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत।
प्रययौ सिंहनादेन नादयानो धरातलम् ॥ 6-87-11(42586)
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा।
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥ 6-87-12(42587)
दुर्योधनादनु ततः कृपः शारद्वतो ययौ।
एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ 6-87-13(42588)
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत ।
अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ॥ 6-87-14(42589)
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ 6-87-15(42590)
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।
प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ ॥ 6-87-16(42591)
ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् ।
श्रृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ 6-87-17(42592)
श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः ।
रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ 6-87-18(42593)
नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः ।
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ 6-87-19(42594)
अथेतरे महेष्वासाः सहसैन्या नराधिपाः ।
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ 6-87-20(42595)
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ 6-87-21(42596)
भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः ।
क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः ॥ 6-87-22(42597)
ततः शूराः समासाद्य समरे ते परस्परम।
नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ॥ 6-87-24a`मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे ।'
पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे ॥ 6-87-23(42598)
ततः प्रववृते युद्धं घोररूपं भयावहम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥ 6-87-25(42599)
नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत ।
व्यात्तानना भयकरा उरगा इव सङ्घशः ॥ 6-87-26(42600)
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ 6-87-27(42601)
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः।
पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः ॥ 6-87-28(42602)
निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः ।
आर्षभाणि च चर्माणि शतचन्द्राणि भारतत ॥ 6-87-29(42603)
अशोभन्त रणे राजन्पात्यमानानि सर्वशः ।
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ॥ 6-87-30(42604)
अशोभेतां यथा देवदैत्यसेने समुद्यते।
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ 6-87-31(42605)
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे।
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ 6-87-32(42606)
दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् ।
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम् ॥ 6-87-33(42607)
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ 6-87-34(42608)
पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् ।
चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ 6-87-35(42609)
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।
अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ 6-87-36(42610)
ततः शान्तनवो भीष्मो रथघोषेण नादयन् ।
अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन् ॥ 6-87-37(42611)
पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् ।
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ 6-87-38(42612)
ततः प्रववृते युद्धं तव तेषां च भारत।
नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ ॥ 6-87-39(42613)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे सप्ताशीतितमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|